New Admission is Going On 2026-27. Contact The Office. Periodic Test II: 28th Nov 2025 to 6th Dec 2025 Pay the School Fee In The School App Directly

Whats Going On

Kendra Prarthana

 

जय जय परमात्मन् संस्मरामो वयं त्वां

निजपरमहितार्थं कर्मयोगैकनिष्ठा: ।

इह जगति सदा नस्त्यागसेवाऽऽत्मबोधै:

भवतु विहतविघ्ना ध्येयमार्गानुयात्रा ॥१॥

वयं सुपुत्रा अमृतस्य नूनं

तवैव कार्यार्थमिहोपजाता: ।

निष्कामबुद्धयाऽऽर्तविपन्नसेवा

विभो! तवाराधनमस्मदीयम् ॥२॥

प्रभो! देहि देहे बलं धैर्यमन्त:

सदाचारमादर्शभूतं विचारम् ।

यदस्माभिरङ्गीकृतं पुण्यकार्यं

तवैवाशिषा पूर्णतां तत्प्रयातु ॥३॥

जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।

इत्येषा प्रार्थनाऽस्माकं भगवन् परिपूर्यताम् ॥४॥

ॐ शान्ति: शान्ति: शान्ति: ॥

Popular Posts